________________
चतुर्थः प्रस्तावः ।
१८१ तैश्च सत्ये समाख्याते राजोचेऽहिविषेण तत् । लिप्तं भावि बहिस्तेन विपन्नोऽयं हिजोत्तमः ॥ ४१ ॥ भकार्यमविचार्येदं धिगहो विहितं मया । यदसौ छेदितो रोषात् तरुराजः सुधामयः ॥ ४२ ॥ अकारि सहसा कार्य यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुखैषिणा ॥ ४३ ॥ हितीयनहरेऽतीते निशाया वासमन्दिरात् । निर्ययौ वत्सराजोऽत्र प्रविष्टस्तस्य चानुजः ॥ ४४ ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्यमहत्वैव वत्सराजो ग्रहं ययौ ॥ ४५ ॥ अथ दुर्लभराजोऽपि तथैव भणितोऽमुना। प्रत्युत्पन्नमति: सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ ४६ ॥ ढनाथ ! जाग्रतोऽद्यापि तौ हावपि ममाग्रजौ । तत् प्रतीक्ष्य क्षणं कार्य साधयिष्यामि तावकम् ॥ ४७ ॥ राजन् ! कथानकं किञ्चित् कथ्यतां शृणुताथवा । इत्यक्ते तेन सोऽवादीत् त्वमप्याख्याहि तन्मम ॥ ४८ ॥ उवाच दुर्लभोऽत्रैव भरते पर्वतोपरि । अस्ति राजपुरं नाम पुरमद्भुतसङ्गुलम् ॥ ४८ ॥ तत्राऽभूद भूपतिः शत्रदमनोऽन्वर्थसंजितः । रत्नमालाऽभिधा तस्य महिषी प्रेमसंयुता ॥ ५० ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसौनस्य सन्निधौ । पाजगाम बटुः कश्चित् प्रतीहारनिवेदितः ॥ ५१ ॥