SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रस्तावः । स्वयं तु स्वयशःकाङ्क्षी समारूढः स कुञ्जरम् । ययौ केशरिणः पार्श्वे शुभङ्करपुरस्मरः ॥ ६२ ॥ विदारिताssस्यः सिंहोऽपि रक्ताचः सज्जितक्रमः । उत्पपाताम्बरतले प्रपित्सुः पार्थिवोपरि ॥ ६३ ॥ मा भूद मत्स्वामिनः पोडेति ध्यायन् स शुभङ्करः । निपतन्तं जघानैनं मुखे चिट्ठाऽङ्कुशं शितम् ॥ ६४ ॥ राजोचे न त्वया साधु विदधे भो: शुभङ्कर ! | मया जिवांसितः सिंहो यत् चापल्याद् हतोऽन्तरा ॥६५॥ न केवलं मृगारातिस्त्वयाऽयं निहतोऽद्य रे ! । मध्ये सर्वनरेन्द्राणां मद्यशोऽपि हतं खलु ॥ ६६ ॥ सोऽवदद् भवतां देव ! देहापायाभिशङ्कया । मया व्यापादितोऽयं हि न तु खोत्कर्षकाम्यया ॥ ६७ ॥ अन्यच्च निहतः स्वामि' प्रभावेणैव केशरी । अन्यथा शृणिमात्रेण कथमस्य निकृन्तनम् १ ॥ ६८ ॥ कथयिष्यामि सैन्यानामग्रे यत् स्वामिना स्वयम् । हर्यक्षो निहतस्तत् त्वं माऽप्रसादं व्यधा मयि ॥ ६८ ॥ इदं कार्यं तु प्रत्यक्षमावयोरेव तत् प्रभो ! | चतुष्कर्णस्य मन्त्रस्य नास्य भेदो भविष्यति ॥ ७० ॥ राजा प्रोवाच यद्येष मन्त्रो भावी स्फुटः सखे !! तदा मे भविता लोकेऽलोकवादिकलङ्कृता ॥ ७१ ॥ ( १ ) २५ ङ ञ ट ण प्रसादेनैव | १८३
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy