________________
श्रीशान्तिनाथचरित्रे इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥ ८ ॥ अज्ञानमोहितप्राणिप्रतिबोधविधौ रतः । धर्मघोषमुनीन्द्रोऽपि विजहार महीतले ॥ ८ ॥ समये रत्नमञ्जर्या देव्याः मूनुरजायत । तदेव समभूत् तस्य नाम यद् गुरुणोदितम् ॥ ४०० । धात्रीभिः पालितः सोऽथ समतिक्रान्तशैशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥ १ ॥ स एव सुगुरुस्तत्र पुनरन्येाराऽऽययौ । उद्यानपालकस्तस्याऽऽगतिं राजे शशंस च ॥ २ ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥ ३ ॥ राज्ञः सपरिवारस्य दत्त्वा दोक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥ ४ ॥ भवाम्भोधिपतजन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिभिः ॥ ५ ॥ प्रव्रज्या प्रतिपद्यापि स्युर्य के विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥ ६ ॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेऽत्र भवन्ति सुखभाजिनः ॥ ७ ॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । सूरिः सिद्धान्तकथितां भविष्यन्ती तयोः कथाम् ॥ ८ ॥