________________
११४
श्रीशान्तिनाथचरित्रे
उवाच भूपतिर्ना' माघटमानं किमत्र भोः ! | मेघवृन्दोद्भवा विद्युद् भवेत् प्राणहरी न किम् ? ॥ ४० ॥ इतरः स्माह यद्येवं तदियं दर्श्यतां मम ।
यतः साध्यामसाध्यां वा वेद्मि दृष्ट्या विलोक्य ताम् ॥ ४१ ॥ गत्वारै विलोकयेत्युक्तो राज्ञा तत्र जगाम सः | सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ ४२ ॥ दध्यौ चैवं नरः सोऽयं येन मे कटकं हृतम् ।
मन्ये त्वाऽऽज्ञापितो राज्ञा यन्निःशङ्खः समेत्य लम् ॥ ४३ ॥ तया दत्तासने सोऽथोपविश्यैवमवोचत ।
मया ह्यारोपितं सुम्बु ! कलङ्कं 'सुमहत् तव ॥ ४४ ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि ! | ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ ४५ ॥ नो चेदियत्यपि गते ऽकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिर्भद्रे ! मम देयस्तदा पुनः ॥ ४६ ॥ तच्छ्रुत्वाऽचिन्तयदसौ कन्या तद्गुणरञ्जिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि ॥ ४७ ॥
(१) खघ ज झ म घटते न किमत्र भोः ।
(२) ङ ञ ट
(३) ङ ञ ट
ष्टाऽव - |
- त्वाऽव - |
(४) द शङ्ख ।
(५) ङ -त्यसौ ।
(६) ज अ ट द सुमहत्तरम् ।