________________
तृतीयः प्रस्तावः ।
वनामाङ्कं च तदृष्ट्वा स दध्यौ किमहो मम । कन्यकेषाभवन्मारी यत्तस्या भूषणं ह्यदः ॥ ३० ॥
देहचिन्ताऽपदेशेन ततश्चोत्थाय भूपतिः ।
गत्वा च कन्यकापार्श्वे प्रसुप्तां तामलोकयत् ॥ ३१ ॥ दृष्ट्वा वामकरं तस्या गुप्तालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वज्ज्राहत इवाभवत् ॥ ३२ ॥ अचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः ।
कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥ ३३ ॥ नृशंसोऽनृताभाषी कुशीलवञ्चलाशयः ।
स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ ३४ ॥ न यावन्नगरीलोकं निखिलं मारयत्यसौ ।
तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥ ३५ ॥ विचिन्त्यैवं वलित्वा चापृच्छन्मित्रं महीपतिः । भद्र ! किं साहसेनैव मृतकं रक्षितं त्वया ॥ ३६ ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुल क्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ ३७ ॥ कृत्वैकान्तमथाचख्यौ राजा यद् भद्र! मे सुता । मारी, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ ३८ ॥ मित्रानन्दोऽवदद्दाक्यं घटते देव! नेदृशम् ।
यत्कुमारो भवेन्मारी समुत्पन्ना कुले तव ॥ ३८ ॥
(१) ध ज झ -प्तामवलोकयत् ।
१५
११३