SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीशान्तिनाथचरित्र अतीव भौषणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्वसमीरण ते प्रणष्टा घना इव ॥ २० ॥ क गमिष्यसि रे दासेति वदन्त्यः सकर्तिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्मदृशाकृतिः । दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्तिकाकरा । मम पार्वेऽबला काचिदाययौ भयकारिणी ॥२३॥ (युग्मम्) क्षयं नथामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मया राजन् ! सेयं मारीति चिन्तितम् ॥२४॥ ततोऽतिसविधीभूता धृता वामकरे क्षणात् । मया वामकरणै षोत्याटिताऽन्येन शस्त्रिका ॥ २५ ॥ मोटयित्वा मम करं 'बलाद्देव ! चचाल सा । मया क्षुरिकया यान्ती दक्षिणोरी च लक्षिता ॥ २६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो!। अनान्तरेऽजिनौबन्धुरुदियाय दिवाकरः ॥ २७ ॥ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद ग्रहोतं यत् त्वया वीरशिरोमणे ! ॥ २८ ॥ परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् । मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥ २८ ॥ (१) स ज त -वो-। (२) ख ट त बनादेव।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy