SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १११ ततश्चाज्ञापितो राज्ञा रक्षकस्त्वयकाऽऽशु रे ! । सोऽत्र बध्वा दुराचारो वणिगानीयतामिति ॥ १० ॥ ज्ञातव्यतिकरः सोऽथ स्वयमेत्य नृपान्तिकम् । दोनारानार्पयत्तस्य नृपस्यैवं शशंस च ॥ ११ ॥ तस्मिन् काले मया देव ! शोकाकुलितचेतसा । शबकत्यविहस्तेन दत्तमस्य धनं न हि ॥ १२ ॥ लोकाचारेण दिवसत्रितयं विगतं 'यतः । द्रव्यदानविलम्बेन दोषः को नाम मे प्रभो ! ॥ १३ ॥ निर्दोष इति भूपालो वणिजं विससर्ज तम् । मित्रानन्दं च पप्रच्छ शबरक्षणजां कथाम् ॥ १४ ॥ सोऽवदद्देव ! यद्यस्ति भवतोऽत्र कुतूहलम् । तदैकमानसो भूत्वा शृणु त्वं कथयाम्यहम् ॥ १५ ॥ नन्वहं धनलोभनाङ्गीकृत्य शबरक्षणम् । यावदस्थामप्रमत्तो गृहीत्वा क्षुरिकां करे ॥ १६ ॥ गतेऽथ प्रथमे यामे राराविरभूत्तदा। स्फोटयन्निव ब्रह्माण्ड प्रचण्डः फेरवीरवः ॥ १७ ॥ ज्वलद्दावानलज्वालाजालपिङ्गलरोमकाः । क्षणाच्च परितः स्वस्य शृगालौर्दृष्टवानहम् ॥ १८ ॥ लोबजीवितनाशाभिस्ताभिरक्षुभिते मयि । हितीये प्रहरी रात्रेः प्रादुरासनिशाचराः ॥ १८ ॥ (१) द ततः।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy