________________
द्वितीय: प्रस्तावः ।
प्रतिपत्तिं विधायाथ संपृष्टोऽमिततेजसा ।
राजा श्रीविजयः सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ ८४ ॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारोचिनामकं दूतं शिक्षां दत्त्वा विसृष्टवान् ॥ ८५ ॥
५३
गत्वा चमरचञ्चायां स दूतस्तमभाषत । आनीताऽस्ति त्वयाऽज्ञानात् भगिनी स्वामिनो मम ॥ ८६ ॥ राज्ञी श्रीविजयस्याहो सुतारेति सतो वरा ।
अप्यतां साधुना शीघ्रमनर्थं माऽऽत्मनः कथाः ॥८७॥ (युग्मम्) उवाचाशनिघोषोऽपि सगर्वोडरकन्धरः ।
रे दूतार्पयितुं नाम किमानीताऽस्त्यसौ मया ॥ ८८ ॥ मत्तो यः कचिदप्येनामनात्मज्ञो जिहीर्षति । दोप्ते मत्खजदीपेऽस्मिन् शलभत्वं स यास्यति ॥ ८८ ॥ इत्युक्त्वा ग्राहयित्वा च कण्ठे निर्वासितोऽसुना । स्वस्थानमगमद्दूत'स्तदर्थोऽस्य शशंस च ॥ ८० ॥ ततः श्रीविजयायादात् विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥ ८१ ॥ एकैकां साधयामास स सप्तदिवसैः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥ ८२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनु श्रीविजयं चेलुः शतसंख्या महौजसः ॥ ८३ ॥
(१) ख च च त तदर्यस्य