________________
५२
श्रीशान्तिनाथचरित्रे
राज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छ्रुत्वा दुःखितौ गाढं यावदेतौ बभूवतुः ॥ ७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि विषादेन शृणु वाक्ती स्वयंप्रमे ॥ ७५ ॥ रथनूपरनाथेन पूजितोऽमिततेजसा ।
संभिन्न श्रोता मत्तातो नैमित्तिकवरोऽस्ति हि ॥ ७६ ॥ तत्पुत्रोऽहं दीपशिखोऽन्यदोव तु प्रचेलतुः । ज्योतिर्वनं प्रति क्रोडां कर्त्तुं तावदपश्यताम् ॥ ७७ ॥ पुरचमरचचेशाशनिघोषेण भूभुजा ।
क्रियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥ ७८ ॥ इत्यूचतुश्च तं दुष्ट धृष्ट दुखेष्ट पाप रे ।
अस्मत्स्वामिखसारं त्वमपहृत्य क्व यास्यसि ॥ ७८ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ ८० ॥ मर्त्तुकामस्तया सार्द्धं सुतारारूपया ततः ।
आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥ ८१ ॥ देव्युदन्ते च विज्ञाते सोऽस्ति तत्प्रापणोद्यतः ।
तदाज्ञयाऽहमागां वस्तत्स्वरूपं च शंसितुम् ॥ ८२ ॥ ततः स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययौ ।
राज्ञः समीपं राजाऽपि ताभ्यां निन्ये स्वपत्तने ॥ ८३ ॥
( १ ) ग सः । (२)
खस्तदा च तौ ।