________________
श्रौशान्तिनाथचरित्र
अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता। अहो धैर्यमहोभाग्य मिति प्राशंसतामिमौ ॥ ८८ । ततः प्राकारसंगुप्त' स स्वर्गहमकारयत्। अखानां रक्षणार्थं च मन्दुरादिनियन्त्रणम् ॥ ८० ॥ सोऽन्येार्जनकं स्माह मम तात कलागमः । खल्पोऽस्त्यद्यापि तं' पूर्ण करिष्यामि त्वदाजया ॥ १ ॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ वकीयसदनान्तिके ॥ १२ ॥ इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः ॥ ८३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ ८४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटिन्यपि । सा शय्यायाः समुत्थाय निर्ययौ भवनाहहिः ॥६५॥ दासीभिर्भणिता किं नु खामिन्यसि ससम्भमा । साऽवदहेवतारूपी गतः क्वापि स मे पतिः ॥ ८६ ॥ प्रत्यूचुस्ता इदानों स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ ८७ ॥ दासीमध्ये ततः सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पिटगृहं निजम् ॥ १८ ॥
(१) ग संयुक्त । (२) “ग सं।