________________
द्वितीयः प्रस्तावः ।
अनयंशोलरत्नाढ्या रत्नचूलेति तस्य तु । जने प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ ४६ ।। अभिमानधनो धीमान् धर्मोपार्जनतत्परः । तयोः पुत्रः कलापात्रं बभूव धनदाभिधः ॥ ४७ ॥ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्दनित्यं पुरदेव्या निकेतने ॥ ४८ स द्यूतक्रीडया नित्यं तावदेवाजयद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते ॥ ४८ ॥.. अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधौरुष्टो देवतामित्यभाषत ॥ ५० ॥ तव देवकुले नित्यं रममाणस्य मे न यत् ।। द्रव्यं सम्पद्यते तत्ते विक्रिया कटपूतने ॥ ५१ ॥ तदद्य प्रकटीभूय द्रव्यं किञ्चित्प्रयच्छ मे। अन्यथाऽहं करिष्यामि तवानथं महत्तरम् ॥ ५२ ॥ देवतोवाच रे दुष्ट त्वपित्रा किं त्वयाऽथवा । द्रव्यमस्यर्पितं मे यत् याचसे सहसैव तत् ॥ ५३ ॥ ततः पाषाणमुद्यम्य' सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेत्त्वां व्यङ्गयिष्यामि निश्चितम् ॥ ५४ । दध्यौ च देवता नास्याकत्यं किञ्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येनह्यन्यथा पुनः ॥ ५५ ॥
(१) घञ -मुत्याश्य। (२) ज भङ्गयिष्यामि ।