________________
श्रीशान्तिनाथचरित्र
ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे किं करोम्यहम् ॥ ५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्सासे त्वं ममाज्ञया ॥ ५७ ॥ तत्पत्रं तहिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यते गृह्यतामहो ॥ ५८ ॥ तहस्त्वसारमालोक्य वणिम्भिर्जातकौतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥ ५६ ॥ तदसम्भाव्यमूल्यत्वादग्रह्णति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययो क्रमयोगतः ॥ ६ ॥ तस्यार्पितेन तन्मूल्यमाख्यातं सोऽथ पत्रकम् । गृहीत्वा वाचयामास गायां तल्लिखितामिति ॥ ६१ ॥ 'जं किरि विहिणा लिहियं तंचिय परिणमइ सयललोयस्म। इय भाविजण धौरा विहुरेवि न कायरा हुंति ॥ ६२ ॥
(१) यत् किल विधिना लिखितं तदेव परिणमति सकललोके।
इति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ * कख च ज ड चिय ।
+ क ख ग च जाणेवि णु। श्रोमुनिदेवस्वरयः स्वकृतपद्यशान्तिनाथचरित्रे संस्कृतबला इमां गाथां एवं लिलिखः -
विधिना लिखितं यत्तन्त्रणां परिणमत्यलम् । धीरा भवन्ति ज्ञात्वैवं विधुरेऽपि न कातराः ॥
(सर्ग २ श्लो० १६७)