SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५८ श्रीशान्तिनाथचरित्रे आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ ३५ ॥ अवान्तरे चारणर्षिद्वितयं नभसा व्रजन् । सनातनजिनानन्तुं तं ददर्श जिनालयम् ॥ २६ ॥ तच्चैत्यवन्दनाहेतोरवतीर्णौ ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ ३७ ॥ तत्रैकः साधुराचख्यौ राजन् जानासि चेत्स्वयम् । तथापि धर्ममाख्यातुमुचितो नस्ततः शृणु ॥ ३८ ॥ मानुष्यकादिसामग्रीं लब्धा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यो निरन्तर सुखार्थिभिः ॥ ३८ ॥ मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ ४० ॥ पृच्छति स्म ततो राजा भक्तिभाक् रचिताञ्जलिः । मुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ ४१ ॥ मुनिरूचेऽव भरतक्षेत्रे विदशपूः समम् । विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥ ४२ ॥ द्दिषत्कोपानलप्रौढोक्कृततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥ ४३ ॥ तस्याग्रमहिषी रूपसम्पदा रतिजित्वरी । कनक श्रीर्विनयादिगुणैर्नारीवराऽभवत् ॥ ४४ ॥ औदार्य्यादिगुणाधारो रत्नसारोऽभिधानतः | अभूत्तत्र राजमान्य: 'श्रेष्ठो धर्मिष्ठधुकः ॥ ४५ ॥ (१) घ श्रेष्ठीशो धर्मधुर्य्यकः ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy