________________
पञ्चमः प्रस्तावः ।
इहाऽऽसीदमरावत्याः शाखानगरसन्निभा ।
शाखामृग'शताऽऽकीर्णा हरिकान्ताऽभिधा पुरो ॥ २० ॥
सत्राभूत् पृथिवीपालो हरिपालाभिधः सुधीः ।
हरीणां पालनत्वेन यदाख्या सत्यतां गता ॥ २१ ॥ तस्यामेव पुरि क्रूरो यमकिङ्करसन्निभः । कृतघ्नो निर्दयश्चाभूद निषादो नाम घातकः ॥ २२ ॥ स पापरितः पापो गत्वा नित्यं वनान्तरे । जघानानेकशो जोवान् वराहहरिणादिकान् ॥ २३ ॥ इतस्तस्मिन् पुरासन्ने वनेऽनेकद्रुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बल्लोमुखाः ॥ २४ ॥ तन्मध्ये वानरी काऽपि कापेयविरता सदा । हरिप्रियाऽभिधानाऽभूद् दयादाक्षिण्यशालिनी ॥ २५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रपाणिकः । अपश्यत् पुरतो घोरं मृगारिं मृगयापरः ॥ २६ ॥ सप्राणोऽपि ततः प्राणभयभीतो द्रुतं द्रुतम् । वा कापि समासनेऽधिरूढो जगतौरुहे ॥ २७ ॥ समारोहन्नसौ तत्र पादपे समलोकयत् | विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥ २८ ॥ यस्य बाणप्रहारेण मातङ्गोऽपि विपद्यते ।
सोऽस्या अपि तदा भौतो यद् भयो भयमीक्षते ॥ २८ ॥
२५८
(१) ख घ ठ - समाकीर्णा ।