________________
श्रीशान्तिनाथचरित्र
एवं कुर्वति तेनोक्तो विदधे सोऽपि तत्तथा । विसिभिये तु सार्थेशो दृष्ट्वा तिलकसुन्दरीम् ॥ ५८ ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ ६० ॥ चलितः कटाहद्दीपं प्रति यानेन सप्रियः । भग्नं च वारिधी यानं ततोऽत्रागां प्रियान्वितः ॥ ६१ ॥ पतिता मत्प्रिया ह्यस्मिन् कूपे नोरेक्षणाकुला । अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥ ६२ ॥ जलान्त:पतिती नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥ ६३ ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेस्त्वं निजस्थानं सुखेन भोः ॥ ६४ ॥ कथितयं मिजा वार्ता सार्थवाह मया तव । त्वमप्यात्मकथां ब्रूहि यतः सख्यं प्रवर्द्धते ॥ ६५ ॥ सोऽवदद्देवदत्ताख्यो भरतादहमप्यहो। कटाहद्दीपमगमं चलितश्च गृहं प्रति ॥ ६६ ॥ तदेहि भद्र त्वमपि गच्छाव: सममेव यत् । आरोपय निजं वस्तु मम याने प्रियां तथा ॥ ६७ ॥ धनदोऽप्यब्रवीदेवं कुरु सार्थपते यतः । षष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥ ६८ ॥
(१)
ख घ ङ च ततः ।