________________
१९८
श्रीशान्तिनाथचरित्रे
वटमेकमथाऽद्राक्षीद् दीर्घशाखं सुविस्तृतम् ।
श्रान्तो गत्वा शनैस्तस्य च्छायायां निषसाद सः ॥ १३ ॥ पार्श्वावलोकनं तेन कुर्वाणेन निरीक्षिताः ।
तरोस्तस्यैव शाखायाः पतन्तो जलबिन्दवः ॥ १४ ॥ ततः सोऽचिन्तयदिदं वर्षाकालोद्भवं जलम् । शाखारन्ध्रे स्थितमियत्कालं पतति संप्रति ॥ १५ ॥ पलाशभाजनं सोऽथ कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेषन्नौलकलुषाम्बुना ॥ १६ ॥ तद् ग्टहीत्वा नृपः पातुं यावदभ्युद्यतोऽभवत् । तावत् तत्राऽऽययौ पक्षी कश्चिदुत्तीर्य पादपात् ॥ १७ ॥ नीरभाजनं तेन पातितं नृपतेः करात् ।
तद्
तथैव तरुशाखायां गत्वा तस्थौ च 'स स्वयम् ॥ १८ ॥ विलक्षो भूपतिर्भूयः कृत्वा पूर्णं जलस्य तत् । यावत् पास्यति तेनैवापाति तावद् विहायसा ॥ १८ ॥ ततः प्रकुपितो भूपो दध्यौ भूयः समेष्यति । यद्येष पक्षी दुष्टात्मा मारणौयस्तदा मया ॥ २० ॥ चिन्तयित्वेति जग्गृहे कशामेकेन पाणिना । जलार्थं स्थापयामास द्वितीयेन पुनः पुटोम् ॥ २१ ॥ दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुटं पातयिष्यामि तद् मामेष हनिष्यति ॥ २२ ॥
(१) द सत्वरम् ।
(२)
ज ह पुत्रम् |