________________
चतुर्थः प्रस्तावः ।
१९७
सोऽपि प्रस्तावनां कृत्वाऽनुज्ञात: पृथिवीभुजा। कथा कथयति स्मैनां तस्य मन्यविनाशिनीम् ॥ २ ॥ इहाभूद् भरतक्षेत्रे महापुरपुर नृपः । शत्रुञ्जयाभिधस्तस्य प्रियङ्गुरिति वल्लभा ॥ ३ ॥ अन्यदा नैगम: कमिद जात्यमेकं तुरङ्गमम् । . भूपतेर्होकयामास तस्य देशान्तरागतः ॥ ४ ॥ पृष्ठे पर्याणमाधाय तनाऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥ ५ ॥ वेगात् प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्व विस्मृतम् ॥ ६ ॥ ततोऽवषु समारुह्याऽऽदाय भक्ष्य जलाऽऽदिकम् । गच्छन्तं तं महीपालमनुजग्मुः पदातयः ॥ ७ ॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः । तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥ ८ ॥ आकुञ्चनेन वलायाः पाणिभ्यां रक्तमक्षरत् । भूपति: सोऽथ निविस्मो मुमोच शिथिलामिमाम् ॥ ८ ॥ अश्खोऽप्यस्यां विमुक्तायां पदमा चचाल न । ततो दुःशिक्षित इति तं विवेद महीपतिः ॥ १० ॥ तस्मादुत्तीर्य पर्याणमथापनयति स्म सः । जातनोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ११ ॥ भीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः ॥ १२ ॥