SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीशान्तिनाथचरित्र तावेवमूचतुर्भद्र ! युक्तं त्वं ननु जल्पसि । पालोयैतत् करिथावो याहि त्वं स्वामिनोऽन्तिके ॥ १४ ॥ दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्यथा । विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥ १५ ॥ आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरियाव इति चिन्तयतोस्तयोः ॥ १६ ॥ पूर्वजन्मसाधितास्ताः स्वयमेवोपस्थिरे । शंसित्वा सिद्धमात्मानं विविशश्च तदन्तिके ॥ १७॥(युग्मम्) जातौ विद्याधरौ तौ हौ तत्प्रभावान्महोजसौ। विद्यानां चक्रतुश्चाची गन्धमाल्यादिवस्तुभिः ॥ १८ ॥ अत्रान्तरे पुनतः प्राप्तस्तस्य महीपतेः । जजल्पवमहो मृत्योरतिथौ किं भविष्यथः ॥ १८ ॥ येन नाद्याऽपि चेव्यौ ते कृते प्रेषयथः प्रभोः । तावूचतुश्च कर्तव्यमवश्यं खामिनो हितम् ॥ २० ॥ ततस्तदुहितुः वर्णश्रियो लोभन तावुभौ । चेव्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ २१ ॥ कलाकौशलमालोक्य भणितौ तौ महीभुजा। युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ २२ ॥ यथौतुर्दुग्धरक्षायां क्षुद्दान् सिद्धानरक्षण । हृष्टो भवेत् तथाऽभूतां तदादेश नृपस्य तौ ॥ २३ ॥ सा कामरहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलोधैर्या विधिनेव विनिर्मिता ॥ २४ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy