________________
१३२
श्रीशान्तिनाथचरित्रे
सोऽवदद् विद्यतेऽग्रेऽपि 'हे वत्सौ ! प्रचुरं धनम् । निजेच्छया त्यागभोगौ तेनैव कुरुतं युवाम् ॥ १४ ॥ इयं च द्वादशी वेला भवेत् सोपद्रवाऽप्यसौ । ततो न युज्यते वार्डों प्रयातुमिति मे मतिः ॥ १५ ॥ अथ तावूचतुस्तात ! मा वादीरोदृशं वचः । भाविन्येषाऽपि नौयात्रा नेमेण त्वत्प्रसादतः ॥ १६ ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणौ । क्रयाणकं जग्टहतुणिमादि चतुर्विधम् ॥ १७ ॥ सामग्रीं सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुह्य चार्णोधौ ततः प्रविशतः स्म तौ ॥ १८ ॥
तयोर्महासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगर्ज च बलाहकः ॥ १८ ॥ विलला सासद् विद्युदूर्मयश्च जजृम्भिरे । वातश्च प्रबलो जज्ञे यानं तेन ननर्त तत् ॥ २० ॥ स्फुटितं च चणादेव विधुरेऽधीरचित्तवत् । विपन्नस्तद्गतो लोकस्तौ यानाधिपती पुनः ॥ २१ ॥ लब्धा फलहकं किञ्चित् तद् गाढं परिरभ्य च । तोरमासेदत् रत्नद्दोपस्य दिवसैस्त्रिभिः || २२ || ( युग्मम्) | नालिकेरीफलैस्तत्र प्राण्यात्रां विधाय तौ 1
तत्तैलाभ्यङ्गयोगेन रूढदेहौ बभूवतुः ॥ २३ ॥
(१) छ झ ट थ तनयौ ।