________________
२४८
श्रीशान्तिनाथचरित्रे
लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् । खरपुष्करगतं समतालं चेति तत् विधा ॥ ८ ॥ अष्टापदं नालिका च जनवादं तथैव च । विधा द्यूतं चावपानविधिः शयनसंयुतः ॥ १० ॥ आभरणविधिश्चार्या गाथा गीतिः प्रहेलिका। लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ ११ ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचूडस्य तथा 'मेद्रस्य लक्षणम् ॥ १२ ॥ चक्रच्छत्रमणिदण्डकाकिणीखनचर्मणाम् । प्रत्येकं लक्षणानीह ज्ञातव्यानि कलाविदा ॥ १३ ॥ चन्द्रसूरग्रहराहुचरितं सूपकारता। विद्याकारो मन्त्रगतं रहस्यगतमेव च ॥ १४ ॥ व्यूहं चापि प्रतिव्यूहं चारं च प्रतिचारकम् । स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥ १५ ॥ स्कन्धावारपुरवास्तनिवेशं चाऽश्वशिक्षणम् । हस्तिशिक्षा तत्त्ववादं नीतिशास्त्रं सविस्तरम् ॥ १६ ॥ धनुर्वेदमणिस्वर्णधातुवादं तथैव च । बाहुयुद्ध दण्डयुद्धं दृष्टिमुध्योयुधं तथा ॥ १७ ॥ नियुद्ध वाग्युधं सर्पवलापां स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च वषिर्वाणिज्यकर्म च ॥ १८ ॥
(१) क ख डज षण्डय। - . .