________________
अर्हम्
अथ पञ्चमः प्रस्तावः ।
इतोऽस्य जम्बूडोपस्य प्राग्विदेहस्य 'मध्यमे । विजये पुष्कलावत्यामस्ति पूः पुण्डरीकिणी ॥ १ ॥ नीतिकोर्तिजयश्रीणां स्त्रीणां सङ्केतमन्दिरम् । अभूत् तीर्थङ्करस्तत्र राजा घनरथाभिधः ॥ २ ॥ रूपलावण्यसंयुक्ते तस्याऽभूतामुभे प्रिये । आद्या प्रीतिमतीनाम्नी द्वितीया च मनोहरी ॥ ३ ॥ वज्रायुधस्य जीवोऽथैक त्रिंशत्सागरस्थितेः । तस्मात् सर्वोत्तमग्रैवेयकादायुःक्षये च्युतः ॥ ४ ॥ तत्पूर्वप्रेयसीकुक्षिशक्तौ मुक्तामणिप्रभः । समुत्पेदे सुतत्वेन मेघस्वप्नोपसूचितः ॥ ५ ॥ ( युग्मम् ) सहस्रायुधजीवोऽथ ततषुप्रत्वोदरेऽभवत् । राज्ञः पत्नगाः द्वितीयस्याः सुरथस्वप्रशंसितः ॥ ६॥ पूर्णकालेऽथ ते देव्यौ प्रसूते शुभलक्षणौ । मेघरथदृढरथनामानौ वरनन्दनौ ॥ ७ ॥ अतिक्रान्तशिशुत्वौ तौ कलाचार्यस्य सन्निधौ ।
सुविनीतौ महाप्राज्ञौ पेठतुः सत्कला इति ॥ ८ ॥
(१) घ ज भूषणे ।