SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीशान्तिनाथचरित्रे धर्मलाभाऽऽशिषं दत्त्वा स मुनिधर्मदेशनाम् । विदध प्रतिबोधार्थ श्रीदत्ताया जनस्य च ॥ २ ॥ तद्यथा धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुवर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ १३ ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥ २४ ॥ श्रीदत्ता स्माह भगवनस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथशारं विधीयते ॥ १५ ॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेसितार्थस्य निवेदकम् ॥ ८६ ॥ आसीदुज्जयिनीपुयां जितशत्रुमहीपतिः। तप्रिया धारिणी नानी नरसिंहश्च तत्सुतः ॥ ७ ॥ कलाकलापसम्पूर्ण: सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥ १८ ॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात् समाययो। करी कश्चित् मदोन्मत्तः शङ्खखेतो नगोबतः ॥ ८ ॥ कतान्तमिव तं क्रुई जनविप्लवकारिणम् । करिणं कथयामास पुमान् कोऽपि महीपतेः ॥ ६०० ॥ तेनाथ प्रेषितं सैन्यं दैन्यं भेज पुरोऽस्य तत् । स्वयमेव महीपालश्चचाल सबलस्ततः ॥ १ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy