________________
तृतीयः प्रस्तावः ।
तपोगुणरतेत्यस्यै कर्मणोऽन्ते महेभ्यकाः ।
'हिगुणां त्रिगुणां वृत्तिं ददिरे वसनानि च ॥ ८३ ॥ जाता सकिञ्चना किञ्चिदन्येद्युर्निजवेश्मनः । कुडयैकदेशात् पतितात् साऽवाप धनसञ्चयम् ॥ ८४॥ उद्यापनं च तपसः प्रारंभे कर्तुमन्यदा ।
१५१
पूजां जिनेन्द्रबिम्बानां विधिनाऽ कारयत् ततः ॥ ८५ ॥ साधर्मिकगणे भक्त्या भोजितेऽस्या गृहाङ्गणे ।
मासोपवासी सत्साधुः सुव्रतः समुपाययौ ॥ ८६ ॥ परप्रमोदपूर्णाज्या तयाऽसौ प्रतिलाभितः । प्राशुकैर्भक्तपानाद्यैर्भावसारं च वन्दितः ॥ ८७ ॥ धर्मं दृष्टप्रभावा सा पप्रच्छाथ तदन्तिके । सोऽवदत् साम्प्रतं धर्मदेशना न हि साम्प्रतम् ॥ ८८ ॥ यदि ते धर्मशुश्रूषा ततः काल उपाश्रये । आगत्य विधिना भद्रे ! श्रव्यो धर्मः सविस्तरः ॥ ८८ ॥ इत्युक्त्वा स्वाऽऽश्रयं गत्वा रागादिरहितोऽथ सः । विधिना पारणं चक्रे स्वाध्यायं च ततः क्षणम् ॥ ८० ॥ पुरलोकस्तदा तत्र श्रीदत्ता च समाययौ ।
प्रणम्य मुनिवर्यं तं तत्पुरो निषसाद च ॥ ८१ ॥
(१) ख ग घ च ज झ द्विगुणप्राज्यभोज्यानि ।
(२) ख घ च ज झ कामितप्रदाम् ।
(३) ख ग घ झ दृष्टफलं हृष्टा । च ज दृष्ट्वा फलं हृष्टा सा पप्रच्छ ।