SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । २४५ सप्तस्वरसमायुक्तं ग्रामवयपविनितम् । तिलोत्तमाऽपि सपरीवारा गीतं व्यधाद् वरम् ॥ ८७ ॥ विधायैवंविधां भक्ति मुनीन्द्रं तं प्रणम्य च । रम्भातिलोत्तमे देव्यो जग्मतुः स्थानमात्मनः ॥ ८८ ॥ वार्षिकों पारयित्वा तां प्रतिमामतिदुष्कराम् । विजहार महीपौठे वच्चायुधमहामुनिः ॥ ८८ ॥ क्षेमर गते मोक्षं गणभृत् पिहिताश्रवः । आययो नगरेऽन्येद्युः सहस्रायुधभूपति: ॥ ८ ॥ धर्म तदत्तिके श्रुत्वा प्रतिबुद्धः सकोऽपि हि । राज्ये शतबलं पुत्रं निवेश्य व्रतमाददे ॥ ८१ ॥ . गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तौ । भूम्यां विहरत: स्मोभौ कुर्वन्तौ विविधं तपः ॥ १२ ॥ ईषत् प्राग्भारसंज्ञऽथ समारुह्य महौधरी । संतस्थतः कृतप्रायौ पादपोपगमेन तौ ॥ १३ ॥ त्यला देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ अवेयकाग्रेयकम् । इत्थं शान्तिजिनेवरस्य चरित तस्यैव वर्याष्टमः प्रोक्तोऽयं मयका भव: सनवमः सङ्घस्य कुर्याच्छिवम् ॥७८४॥ इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते अष्टमनवमभववर्णनो नाम चतुर्थः प्रस्तावः ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy