________________
२६८
श्रीशान्तिनाथचरित्रे
स्मरअपकति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृति: पौरुषी यतः ॥ १५ ॥ वसन्ते सङ्गतेऽन्येद्यु: कामिनां चित्तशालिनाम् । ऋतौ पुष्यफलाकोणे कानने 'कमिताक्षते ॥ १६ ॥ अन्दोलजलकेल्यादि प्रक्रीय कदलीरहे। सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥ १७ ॥ (युम्मम् ) कुधिया कपिना तेन स्वामिभक्तत्वमानिना। ममरव्याजतो राज्ञः कृत्ता खड्नेन कन्धरा ॥ १८ ॥ यथा तेन क्षितौशन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥ १८ ॥ इत्याकर्ण्य कथा तेन व्याधनाश हरिप्रिया । पातिताऽस्य मृगारातेः पुरः प्रोवाच तामसी ॥ २०॥ .. न धार्य हृदये दुःखं भने ! प्राप्ता त्वया ननु । तादृशी फलसम्प्राप्तिर्यादृश: सेवितो नरः ॥ २१ ॥ प्रत्युत्पन्नमतिः साऽथ व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाहं भक्षणीयैव केवलम् ॥ २२ ॥ हितं ते वच्म्यदो वाक्यं वानराणां मृगाधिप ! । प्राणा वसन्ति लाङ्गले ग्राद्यास्तत्रैव तत्त्वया ॥ २३ ॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरौ । वृक्षे त्वरितमारूढा पुच्छं मुक्त्वा मुखेऽस्य तत् ॥ २४ ॥
(१) द कामिवाञ्छिते।