________________
२४२
श्रीशान्तिनाथचरित्रे कीदृशौति तृपणोतो सोऽवदद् राजगुह्यको ? । निणेजकालिमातङ्गाश्चेति ते जनकाः स्फुटम् ॥ ५७ ॥ राजोचे किमसंबद्धं ब्रूषे जानासि वा कथम् ? । सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ५८ ॥ न्यायेन पालयस्युवौं येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः ॥ ५८ ॥ कोपं करोषि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ६ ॥ विद्यः कण्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ६१ ॥ इत्यर्थे संशयश्चेत्ते जनौं पृच्छ तबिजाम् । तयाऽप्यनुमतं ह्येतदतिनिबन्धपृष्टया ॥ ६२ ॥ वीक्ष्याभिलषिता एते यदृतुस्नातया मया । तेन पञ्चाप्यमी वत्स ! पिढभावं भजन्ति ते ॥ ६३ ॥ ततोऽसौ रोहको नामाऽनन्यसामान्यधोधनः । पञ्चमन्त्रिशतवामी कृतस्तुष्टेन भूभुजा ॥ ६४ ॥ 'तस्य बुद्धिप्रभावेण दृप्ता अपि महीभुजः । अरिकेसरिभूपस्य बभूवुर्वशवर्तिनः ॥ ६५ ॥
॥ इति रोहककथानकं समाप्तम् ॥
बुद्धिर्वैनयिकी सा या विनयेन भवेद् गुरोः । अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकत् ॥ ६६ ॥