________________
पञ्चमः प्रस्तावः ।
बुभुचितः किं न करोति पापं ?
क्षीणा नरा निष्करुणा भवन्ति ॥ ८५ ॥
इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथञ्चन ॥ ८६ ॥ एवं राजन् ! क्षुधार्तः सन् कृत्याक्कृत्यं न वेद्माहम् । तदाशु प्रीण्य त्वं मां यावत् प्राणा न यान्त्यमी ॥ ८७ ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराहारं भद्र! त्वं क्षुधितो यदि ॥ ८८ ॥ पक्ष्यूचे नान्य आहारोऽस्माकमिष्टो विनाऽऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ ८८ ॥ पश्यतो मेऽङ्गिनो मांसं छित्त्वा चेहोयते ततः ।
तिर्भवेदिति पुनर्वदति स्म स नोडजः ॥ ८० ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षौ तुलाष्टतः । तावन्मात्रं निजं मांसं यच्छामि किमु ते वद ? ॥ ८१ ॥
২৩५
एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः ।
न्यवेशयच्च तत्रैकपार्श्वे पारापतं द्विजम् ॥ ८२ ॥ उत्कृत्योत्कृत्य देहं स्वं तीक्ष्णतुरिकयाऽक्षिपत् । द्वितीयपार्श्वे मांसं च करुणारससागरः ॥ ८३ ॥ छित्त्वा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥ ८४॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥ ८५ ॥