________________
हतीयः प्रस्तावः।
१५८ धृत्वा केशेषु तां राजा प्रोचे रण्डे ! भविष्यसि । त्वमेवं कुर्वती हन्त चातुर्मार्गानुयायिनो ॥ १२ ॥ जल्यन्ती दीनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । हारमुहाव्य च क्षिप्रं निजं धाम समाययौ ॥ ६३ ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । 'सर्वं समर्पयामास भवनं तहभन्न च ॥ ६४ ॥ आनीताः स्वस्खगेहेषु ताः स्त्रियस्तेन दस्युना। मोहिता न रतिं तत्र लेभिरे चञ्चलाशयाः ॥ ६५ ॥ मुहुर्मुहुव्रजन्ति स्म दस्युस्थाने ततो जनः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिषक् ॥ ६६ ॥ सोऽवदद दस्युचूर्णेन जाता एवं विधा इमाः । दत्त्वा स्वचूर्ण राजेन्द्र ! खभावस्थाः करोम्यहम् ॥ ६७ ॥ ततो राजाजया तेन ताः कता गतकार्मणाः। एका तु तदवस्थेवाऽऽचख्ये तदपि भूभुजा ॥ ६८ ॥ पृष्टोऽथ भिषगाचख्यौ देव ! चूर्णेन योगिनः । कासाच्चित् वासिता कृत्तिः कासाञ्चित् मांसशोणिते ॥६॥ सर्वास्ताः प्रतिचूर्णेन खभावस्थाः कता मया। अस्थास्तु वासितास्तेनास्थिमज्जा अपि भूपते ! ॥ ७० ॥ यद्यसौ घर्षयित्वाऽस्य दस्योरस्थीनि पाव्यते। ततः संजायते राजन् ! स्वभावस्थाऽन्यथा न हि ॥ ७१ ॥
(१) घ च झ, स सर्वमपयामास।