________________
श्रीशान्तिनाथचरित्रे तत् तथा कारयित्वाऽऽशु निर्विकारा कताऽप्यसौ। नरसिंहनरेन्द्रेण सदा परहितैषिणा ॥ ७२ ॥ स श्रीजयन्धराचार्योऽन्यदा तत्र समाययौ। यस्य पार्खे पिता राज्ञो जितशत्रुरभूदु व्रती ॥ ७३ ॥ धर्म तदन्तिके श्रुत्वा नरसिंहपोऽपि सः । प्रतिबुद्धः सुतं राज्येऽस्थापयद् गुणसागरम् ॥ ७४ ॥ ततो दीक्षामुपादाय तपः क्त्वाऽतिदुष्करम् । निष्कर्मा नरसिंहर्षिरवाप शिवसम्पदम् ॥ ७५ ॥
॥ इति नरसिंहऋषिकथानकम् ॥
अचेऽथ' सुव्रतो भद्रे ! यथा चूर्णेन योगिनः । तस्यास्तस्या नितम्बिन्या अस्थि मज्जाऽधिवासिता ॥ ७६ ॥ तथा त्वमपि कल्पद्रुचिन्तामण्यधिकचिया । धर्मेण भावयात्मानं श्रीदत्ते ! दृष्टप्रत्यये ! ॥ ७७ ॥ ततोऽसौ शुद्धसम्यबामूलं धर्ममगारिणाम् । प्रतिपदे मुनेस्तस्य समीपे सरलाऽऽशया ॥ ७८ ॥ व्यहार्पोन्मुनिरन्यत्र श्रीदत्ताऽपि गता गृहम् । प्रतिपनं निजं धर्म विधिवत् पर्यपालयत् ॥ ७ ॥ चकार साऽन्यदा कर्मपरिणामवशादिमाम् । धर्मस्य विषये थाही विचिकित्सां मनोगताम् ॥ ८० ॥
(१) च झ, च। (२) च क द -मज्जा हि वासिताः।