________________
१२४
श्रीशान्तिनाथचरित्रे कस्याश्चिद् दैवदुर्योगात् पल्लेमध्यात् समागता। पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ ३६ ॥ सर्वेऽपि पत्तयो भिल्लैः प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाको कान्दिशौक: पलायितः ॥ ३७॥ ह्रिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केऽपि कापि ययुः पार्वे भवतः कोऽपि नाऽऽययौ ॥३८॥ मित्रो गच्छन्नरण्येऽथ ददशैकं सरोवरम् । तत्र पौत्वा च पानीयं न्यग्रोधस्य तलेऽ स्वपत् ॥ ३८ ॥ ततोऽसौ कृष्णसर्पण निस्मृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनागतेन तपखिना ॥ ४० ॥ विद्याऽभिमन्त्रितजलाभिषिक्तसकलानकः । करुणाऽऽपत्रचित्तेन तेन जीवापितस्ततः ॥ ४१ ॥ पृष्टश्चैवं त्वमेकाको प्रस्थितोऽसि क्क भद्रक !। तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ ४२ ॥ खस्थानं तापस: सोऽगाद् दध्यौ मित्रोऽपि हा मया। संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ ४३ ॥ तन्मित्रसङ्गमस्यापि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्याखें यामि किं चिन्तयाऽनया ॥ ४४ ॥ ततोऽसौ 'चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्ली तैविक्रीतो वणिगन्ति के ॥ ४५ ॥
(१) घ ण द -स्वपीत् । (२) छ द वलितो-।