________________
हृतीयः प्रस्तावः ।
तामिहानय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ २६ ॥ तस्मादुपद्रवादाशु मुच्यते सेति सूरिणा । कथिते श्रेष्ठिना निन्ये सा सद्यस्तत्पदान्तिकम् ॥ २७ ॥ नष्टाः सूरिप्रभावेण खगामिन्यः क्षणेन ताः । श्रुत्वा च चरितं स्वस्य जातिस्मृतिमवाप सा ॥ २८ ॥ जजल्प च प्रभो ! सत्यं यद् युष्माभिर्निवेदितम् । तदलं भववासेन परिव्रज्यां प्रयच्छ मे ॥ २८ ॥ गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति 1 भुक्ते तस्मिन् श्रमणी त्वं भविष्यसि शुभाशये ! ॥ ३० ॥ एवमस्त्विति तच्छ्रेष्ठी प्रतिपद्या'ssययौ गृहम् । तद्दृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ ३१ ॥ अत्यद्भुतं भगवतौ ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्तं यद्दत्तं पूर्वजन्मनि ॥ ३२ ॥ पप्रच्छ च प्रभो ! मित्रानन्दस्य सुहृद: कथाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ ३३ ॥ गुरुणोक्तं महाराज ! त्वत्पार्श्वाञ्चलितोऽथ सः । जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥ ३४ ॥ nine गिरिगद प्रपाते तस्थिवानसौ ।
तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥ ३५ ॥
(१) द - द्य ययौ ।
१२३