SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः । त्रिरात्रद्दित्यं तत्र भवेच्चातुर्थिकानि च । हात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् ॥ ८८ ॥ तस्य पारणके ताभ्यां मुनिरेको गृहागतः 1 प्रणम्य प्राशुकैर्भक्तपानाद्यैः प्रतिलाभितः ॥ ee ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता । राजगुप्तः स चाचाम्लवर्धमानं तपोऽकरोत् ॥ ९०० ॥ श्रायुःचये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्चप्रतः सिंहरथाभिधोऽयं समभूत् प्रिये ! ॥ १ शङ्किका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतोनाम्नो जज्ञेऽस्यैव हि वल्लभा ॥ २ ॥ इति मेघरथप्रोक्तमाकर्ण्य चरितं निजम् । प्रतिबुद्धः सिंहरथो गतो निजग्टहं ततः ॥ ३ ॥ निवेश्य तनयं राज्ये प्रियया सहितस्तया । श्रीधनरथतीर्थेशपादान्ते व्रतमग्रहीत् ॥ ४ ॥ घोरं कृत्वा तपःकर्माऽवाप्य केवलमुत्तमम् । धौतकर्ममलः सिद्धिं ययौ सिंहरथो मुनिः ॥ ५ ॥ वनादु गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽलङ्करणाऽऽरम्भो विदधे पोषधव्रतम् ॥ ६ ॥ मध्ये पोषधशालायाः स्थितो योगाssसने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥ ७ ॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षणः । संवृत्तोऽस्मि महाराज ! तवाहं शरणाऽऽगतः ॥ ८ ॥ २५७ ३३
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy