________________
१७६
श्रीशान्तिनाथचरित्रे
ततः खङ्गं समाकृष्य दोपच्छायान्तरस्थितः । उपर्यधो वोच्क्ष्यमाणो यावदस्थादसौ तदा
८८ ॥
चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभोतो जग्गृहे शीघ्रं करेणैकेन तन्मुखम् ॥ ८० ॥ (युग्मम् ) द्विखण्डं विदधे चास्य देहमन्येन सोऽसिना । एकत्र गोपयामास तत् खण्डद्दयमप्यसौ ॥ ८१ ॥ दृष्ट्वाऽथ पतितान् रक्तबिन्दून् देव्या उरःस्थले । सोsur स्वहस्तेन विषसंक्रान्तिभीरुकः ॥ ८२ ॥ अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । करं व्यापारयन्तं तं देव्या वचोरुहोपरि ॥ ८३ ॥ ततः कोपपरीताङ्गो दध्यौ किं मारयाम्यमुम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ ८४ ॥ मुं केनाप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चित्य तस्थौ स सनिद्राऽवस्थया 'तया ॥ ६५ ॥ वादितोऽथाऽऽदिमो यामो रजन्याः घटिकाग्टहे । वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगाब्रिजाऽऽलयम् ॥ ८६ ॥ जजल्प भूपतिः कोऽत्र स्थाने प्राहारिकोऽस्ति भोः ! | सोऽवदद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ ८७ ॥
(१) ख च ठ तथा ।
(२) द वादितेऽथादिमे यामे ।
छ झ वादिते प्रथमे यामे
1
ख घ च ड वादितः प्रथमो यामो ।