________________
२R
श्रीशान्तिनाथचरित्रे
अयं स्थगीधरो राज्ञः किमु भद्र क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ ८८ ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाट् गीतरतिर्नाम्ना सार्थवाहस्य सन्निधौ ॥ ४०० । ततो गातुं प्रवृत्तोऽसौ निजवन्दसमन्वितः । रञ्जित: सार्थवाहोऽपि तह्रोतकलयाऽग्राया ॥ १ ॥ दानेन तोषयित्वैनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥ २ ॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । वशे यस्य महीपालस्ततः किं मे सुदुष्करम् ॥ ३ ॥ सार्थवाहोऽब्रवीत्तहि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥ ४ ॥ अङ्गीकृतेऽथ तत्कायें स तस्मै प्रीतमानसः । सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥ ५ ॥ ययो च नृपतेः पार्थे सभासीनस्य तस्य तु। मातङ्गोऽपि 'समभ्येत्य पुरो गातुं प्रचक्रमे ॥ ६ ॥ तगीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥ ७ ॥ ताम्बूलं ददतस्तस्य लगित्वा कण्ठकन्दले । चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन् रुरोद सः ॥ ८ ॥
(१) ग च तदाभ्येत्य।