SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ द्वितीय: प्रस्तावः । धनदोऽभ्यवदत्तावद्दविग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो ॥ ८ ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्माहम् । गृहीतः स तु कैवर्तेर्जंठरं चास्य दारितम् ॥ ८ ॥ दृष्टश्च तस्य मध्येऽहं ततश्चैभिः सविस्मयैः । भवत्पार्श्वं समानीतो राजनिति कथा मम ॥ ८० ॥ स्वर्णक्षालितनीरण स्रपितः सोऽथ भूभुजा । मत्स्योदराभिधानव स्थापितो निजसविधौ ॥ ८१ ॥ प्रार्थितेन तेनासौ विदधे च स्थगीधरः । निनाय दिवसानेवं स्वस्वरूपमवेदयन् ॥ ८३ ॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्रान्येद्यः समाययौ ॥ ८३ ॥ गृहीत्वा प्राभृतं सोऽपि प्रतीहारनिवेदितः । श्रययौ नृपतेः पार्श्वे निषसय कृतानतिः ॥ ८४ ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगोधरकरेण च ॥ ८५ ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । स सुदत्तोऽपि धनदमुपलक्षयति स्म तम् ॥ ८६ ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देहतत्परः | भणितो भूभुजा यत्तेऽईदानं भवतादिति ॥ ८७ ॥ महाप्रसाद इत्युक्त्वा निजस्थानं गतोऽन्यदा । पप्रच्छ पुरवास्तव्यं पुरुषं कचिदित्यसौ ॥ ८८ ॥ १० ৩३
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy