________________
चतुर्थः प्रस्तावः ।
१८५
तच्छ्रुत्वा भूपतिः क्रुद्धो दध्यौ तस्य दुरात्मनः । पश्य दुश्चरितं कीदृक् स्फुटं मिथ्याऽभिभाषिणः ॥ ८२ ॥ गुह्यं कस्यापि नाख्येयमित्युदित्वा पुरो मम । . तदैव कथयामास देव्याः खोत्कर्षलम्पटः ॥ ८३ ॥ प्रच्छन्नं मारणीयोऽयं तन्मया मर्मभाषकः । इति ध्यावाऽऽरक्षकस्य शिक्षा तां प्रददौ नृपः ॥ ८४ ॥ तेन व्यापादितः सोऽथ निजगेहमुपागतः । सिद्धं तद् देव ! ते कार्य भर्तुश्चेति निवेदितम् ॥ ८५ ॥ अन्यस्मिंश्च दिने देवी पप्रच्छ जगतीपतिम् । शुभकरबटुर्नाथ ! दृश्यते नाधुना कथम् ? ॥ ८६ ॥ बभाण भूपतिस्तस्य ग्राह्यं नामापि न प्रिये !। सोचेऽपराइं किं तेन तव देव ! महात्मना ? ॥ ८७ ॥ ततस्त द्विषये राज्ञा स्वाभिप्राये निवेदिते । 'तयोक्तं न ममाऽऽख्यातं तेनेदं सिंहमारणम् ॥ ८८ ॥ किं तु दृष्टं मयैवेदं प्रासादे सप्तभूमिके । प्रारूढया कौतुकेन नास्य दोषोऽत्र कश्चन ॥ ८८ ॥ देव ! सत्यं समाख्याहि किं जीवति मृतोऽथ सः १ । इति पृष्टे तया भूपो भूयः सानुशयोऽवदत् ॥ १० ॥ अकार्य हा ! मया देवि ! कतमद्य महत्तरम् । यदसौ घातितः सर्वगुण रत्ननिधिर्बटुः ॥ ८१ ॥
(१) ङ त द देव्योकम् ।
(२) ङ ममाख्या-1