SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र पुनः प्रोवाच भूपालः परमार्थ निवेदय । मत्स्योदर महाश्चर्यकारि सर्वमिदं यतः ॥ १८ ॥ सोऽवदत्तर्हि विद्यन्ते यानऽस्य वणिजो मम । सपादाष्टशती स्वर्गसङ्घाटानां महीपते ॥ २० ॥ पञ्चदश सहस्राणि रत्नानां च प्रभावताम् । इति विज्ञाय गोखामिन् यत्कर्त्तव्यं कुरुष्व तत् ॥ २१ ॥ अभिज्ञानमिदं चात्र यतः सर्वेऽपि सम्पुटाः । खनामाङ्काः कृताः सन्त्युपलक्षणकृते मया ॥ २२ ॥ भूपपृष्टेन तेनाथ तबामोदौरितं निजम् । राज्ञाऽप्यानायितास्तेऽथ सङ्घाटाः खपचौकसः ॥ २३ ॥ विधा कृतेषु तेष्वन्तर्दृष्ट्वा तां धनदाभिधाम् । सद्यश्चुकोप मातङ्गवणिभ्यामवनीपतिः ॥ २४ ॥ हन्यमानी च तो मत्स्योदरेणैव विमोचिती। सोऽथ कल्याण नोरण स्नात्वा शुचिरभूत्पुनः ॥ २५ ॥ वणि पार्खात् निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूतनदो धनदोपमः ॥ २६ ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मन: कथाम् । सत्यां यथाऽत्र वास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ २७ ॥ गाथा मयैका दीनारसहस्रेणात्मसात्कृता। ततो निष्कासितः पित्रा ततो देशान्तरं गतः ॥ २८ ॥ (१) घ ङ ञ पावे। (२) घ ज मया गाथैका । ग मयैका गाथा। च मयैकगाथा |
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy