________________
१८८
श्रीशान्तिनाथचरित्रे
तावन्योऽन्यं समाश्लिष्य निविष्टावुचितासने । ताम्बूलाद्यौचितीं तस्य सार्थनाथचकार सः ॥ ११ ॥ क्षेमवातां च पप्रच्छ प्रत्यूचे सोऽपि किं मम । पृच्यते येन विदधे प्रतिपत्तिस्तवेशी ॥ १२ ॥ इत्याद्यात्मानमानिन्द्याऽभ्यर्थयित्वाऽथ सार्थपम् । श्रनिनाय निजां पल्लौं पल्लिनाथोऽप्युदारधीः ॥ १३ ॥ स्नानभोजनवस्त्राऽऽद्यैस्तं संमान्य गृहाऽऽगतम् । मुक्ताफलेभदन्ताद्यैः यः पूजयामास चाऽऽदरात् ॥ १४ ॥ ततस्तं समनुज्ञाप्य ग्टहीत्वा वस्तु किञ्चन । स सार्थसहितोऽचालीत् प्राप्तख नगरं निजम् ॥ १५ ॥ प्रविश्य धनदत्तोऽथ महाभूत्या निजे पुरे । स्वभुजोपात्तवित्तेन विदधे स्वविचिन्तितम् ॥ १६ ॥ ददौ दानानि पात्रेषु सञ्चक्रे च सुवासिनीः । गुरूंश्च पूजयामासाकारयत् कीर्तनानि च ॥ १७ ॥ चकार चान्यदप्यात्मचिन्तितं विभवेन सः । तत्र सूरिवरोऽन्येद्युर्विहरन् कश्चिदाययौ ॥ १८ ॥ तत्पार्श्वे धर्ममाकर्ण्य स भूत्वा च महाव्रतो । प्राप्तः क्रमेण निष्कर्मा निर्वाणपद 'मव्ययम् ॥ १८ ॥ इतो नरवरेन्द्रोऽसौ गृहीत्वाऽऽम्रफलं करे |
* दध्यौ स्वयं प्राशितेन किमेतेन भवेद्गुणः ॥ २० ॥
(१) ख ग घ ज -मुत्तमम् ।