________________
श्रीशान्तिनाथचरित्र
कथञ्चिदिजनत्वाहां यद्यत्रोत्पद्यतेऽरतिः । पूर्व दिग्वनखण्डे तगन्तव्यमपशशितम् ॥ ३४ ॥ सर्वदाऽवस्थितौ तत्र ग्रीष्मप्राइटसुसंनिती। उभातू विनोदाय युवयोरपि भाविनी ॥ ३५ ॥ न चेत् तत्राऽपि वां चित्तं रमेत कथमप्यहो। तदोत्तरवनखण्डे गन्तव्यं हि ममाजया ॥ ३६ ॥ तत्राप्यवस्थितौ नित्यं शरद्देमन्तनामको। भविष्यत ऋतू नाम स्वाधीनौ युवयोरपि ॥ ३० ॥ तत्रापि नो रतिश्चे हां तत्प्रतीचौवनान्तरे । गम्यं तनाऽपि शिशिरवसन्ताख्यातू स्थिरौ ॥ ३८ ॥ तत: प्रासाद एवाऽत्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्था वनेऽमुमिन् गन्तव्यं न कथञ्चन ॥ ३८ ॥ यतस्तत्रासितच्छायो भुग्नकायो द्दिजिह्वकः । अस्ति दृष्टीविषः सर्पो वेणीभूतोऽवनिस्त्रियः ॥ ४० ॥ एवमुक्त्वा ययावेषा माकन्दितनयौ च तौ। वनखण्डनये तस्मिन् गच्छतः स्म पुरोदिते ॥ ४१ ॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने । पौन:पुन्येन गच्छन्ती तयाऽऽवां वारिती कथम् ॥ ४२ ॥ चिन्तयित्वेति साशको 'यावत्तौ तत्र गच्छतः । प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥ ४३ ॥
(१) ग यावत्तौ दक्षिणां गतौ। ज द यावत्तले यतस्तको।