SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । १८३ तस्य सिंहवतो भार्या जीवितादपि वनमा । वर्तते प्राणसन्देहे सा भूतग्रहपीडया ॥ ६१ ॥ पल्लिनाथोऽपि न: स्वामी वियोगऽस्था मरिष्यति । एतेन कारणेनाहं दुःखितो भद्र ! रोदिमि ॥ ६२ ॥ सार्थवाहस्ततोऽवादीदेकवारमह दृशा। पश्यामि तां यतो मेऽस्ति मन्त्रो भूतग्रहापहः ॥ ६३ ॥ तेनाथ पग्लिनाथस्याऽऽचख्ये तोऽपि सत्वरम् । प्रेयसौं तां समादाय तत्समीपमुपाययौ ॥ ६४ ॥ विलोक्य सार्थवाहोऽपि कृत्वा च चकलाकतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ १५ ॥ जीवदानोपकारं तं कृत्वा पल्लीपतिः स तु। विसृष्टः सार्थवाहेन स्वपल्लों पुनरप्यगात् ॥ ६६ ॥ वलितो धनदत्तोऽपि ततः स्थानात् शनैः शनैः । वेलाकूलगतं प्राप गम्भीराख्यं पुरं वरम् ॥ ६ ॥ कत्वा निवेशं सार्थस्य तस्थुषस्तत्र पत्तने । न मनोवान्छितो लाभो बभूवास्य कथञ्चन ॥ ६८ ॥ ततोऽसौ चिन्तयामास पाश्चात्यप्रहरे निशः । अर्जयिथाम्यहं वित्तमागाह्य सरितां पतिम् ॥ ६८ ॥ इति चिन्तापरस्यास्य विगता सा विभावरी। ततश्चोत्याय शय्याया वेलाकूलमियाय स: ॥ ७० ॥ रङ्गत्तरङ्गमालाभिरभ्युत्थान इवोस्थितम् । विधिन्नः पूजयामास सार्थवाहः सरित्पतिम् ॥ ७१ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy