________________
चतुर्थः प्रस्तावः ।
संसारवासनिर्विण्णः सुधर्ममुनिसन्निधौ ।
जग्राह स सुधीक्षां शिक्षां च द्विविधामपि ॥ ४८ ॥ स पञ्च समितीः सम्यक् पालयामास यत्नतः । गुप्ती चापालयत् कायगुप्तौ किं तु न निश्चलः ॥ ५० ॥ 'कायोत्सर्गे स्थितो दंशमशकोपद्रवे सति । पारयामास तं शीघ्रमसंपूर्णेऽवधावपि ॥ ५१ ॥ सुधर्मसाधुनाऽभाणि किमावश्यकखण्डनम् ? । 'प्रकरोषि यतो दोषो व्रतभङ्गे भवेद् महान् ॥ ५२ ॥ ततस्तद्भयभीतोऽसावसहिष्णु रिमामपि ।
गुप्तिं निर्वाहयामास वैयावृत्त्यं चकार च ॥ ५३ ॥ मृत्वा समाधिना सोऽन्ते' सौधर्मे त्रिदशोऽभवत् । जज्ञे तव सुत: श्रेष्ठिन् ! ततः च्युत्वाऽऽयुषः क्षये ॥ ५४ ॥ सप्त प्रवचनमातृर्यत् सुखेनैव पालिताः । तदनेन प्रियाः सप्त परिणीताः सुखेन हि ॥ ५५ ॥ कष्टेन पालितैका यत् प्रियाऽप्येवमभूत् ततः । श्रप्रमादो विधातव्यो धर्मकर्मणि सर्वथा ॥ ५६ ॥ तच्छ्रुत्वा जातसंवेगोऽग्रहीद दीक्षां 'पुरन्दरः । जग्राह श्रावकत्वं च पुण्यसारो विवेकवान् ॥ ५७ ॥
(१) घ ङ कायोत्सर्गस्थितो । (२) द भोः 1
२३१
(२) ङ सोऽपि ।
(8) ङ, व श्रेष्वपि ।