________________
१८६
श्रीशान्तिनाथचरित्रे
तदाकर्ण्य मयाऽचिन्ति सत्यमेतन्न संशयः । 'यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गौः ॥ ८२ ॥ ततस्तत्फलमानीय पितृभ्यां प्रददाम्यहम् । येनैतौ तरुणावस्थौ जायेते 'च सुचक्षुषौ ॥ ८३ ॥ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मया द्रुतम् । फलमेतत् समानीतं तदिदं भद्र ! गृह्यताम् ॥ ८४ ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् | भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ॥ ८५ ॥ ततश्च सार्थवाहेन विस्मयोत्फुल्लचतुषा । जग्टहे तत्फलं कोरोऽप्युत्पपात नभस्तले ॥ ८६ ॥ बहूनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् ॥ ८७ ॥
परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः ।
दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः ॥ ८ ॥ ययौ भूमिपतेः पार्श्वे ढोकयित्वाऽथ प्राभृतम् । तत्फलं चार्पयामास परमार्थं निवेद्य तम् ॥८॥ ( युग्मम् ) परितुष्टो मुमोचाथ शुल्कमस्याखिलं नृपः ।
महाप्रसाद इत्युक्वा निजाssवासमगादसौ ॥ २०० ॥
(१) घ च ज झा, संजायते । (२) खघ झ, दिव्यचक्षुषौ ।
(३) घ च छ -ऽद्भुतम् ।