SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र अचुश्च मन्त्रिण: स्वामिन् यद्येत संमतं तव । तदाभिषेको यक्षस्य प्रतिमाया विधास्यते ॥ ५२ ॥ चेद्देवतानुभावेन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयो यक्षप्रतिमैव विनश्यति ॥ ५३ ॥ : राजाऽथ युक्तमित्युक्त्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपेदे पौषधव्रतम् ॥ ५४ ॥ संस्तारकनिषणश्च तपोनियमसंयमैः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः ॥ ५५ ॥ अन्ये च मन्त्रिसामन्तप्रमुखाः भूपतेः पदे। . निवेश्य यक्षप्रतिमां तस्थुस्तस्याः समीपगा: । ५६ ॥ ततः सप्तमे घोऽब्दः क्षणाद् व्याप्तं नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ ५७ ॥ मुहुर्विद्योतमानोऽथ विद्युइण्डस्तथाऽपतत् । तस्मिवेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥ ५८ ॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागानिजं गृहम् ॥ ५८ ॥ सर्वान्तःपुरनारीभिष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नोधैः म नैमित्तिकपुङ्गवः ॥ ६० ॥ राजाऽपि भूरि द्रव्येणार्चितो विससृजे च सः । यक्षस्य प्रतिमा रत्नमयो नव्या च कारिता ॥ ६१ ॥ पूजा च जिनबिम्बानां श्रेयःसन्ततिकारिणी। राज्ये पुनर्जन्मनीव खस्याकारि तथोत्सवः ॥ ६२ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy