SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्रे परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्मा बालिकाऽवदत् ॥ २ ॥ यदि दास्यथ मां तस्मै यूयं तात तदा ध्रुवम् । आत्महत्यां करिष्यामि तच्छु त्वा विषसाद सः ॥ ८३ ॥ ऊचे च सचिवं तावत् यात यूयं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुन: ॥ ८४ ॥ मन्त्री गत्वा तदाचख्यो राज्ञः शूरोऽपि कन्यकाम् । बभाण 'सा तु श्रोषणा नेच्छति स्मैव तं पतिम् ॥ ८५ ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । सुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥ ८६ ॥ अत्रान्तरे च संप्राप्तो धनदो राजस निधी। पप्रच्छवं महाराज यूयं चिन्तातुरा नु किम् ॥ ८७ ॥ राजाऽपि तनयावस्थास्वरूपं पर्यकोर्तयत् । तच्छ्रुत्वा श्रेष्ठिसूः स्माहाल विषादेन भूपते ॥ ८८ ॥ देवीचक्रेश्वरीदत्तमणमाहात्मातः क्षणात् । साधयिष्याम्यदःकार्यमित्युक्त्वा मणिमानयत् ॥ ८८ ॥ आयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्तत: ॥ ८ ॥ सा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे । दध्यौ तं च समीपस्थां सखों स्निग्धमजिज्ञपत् ॥ ८१ ॥ (१) ग ङ च ट बहुधा सा तु। (२) घ ज स्व-1
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy