________________
प्रथमः प्रस्तावः ।
इतश्चात्रैव भरते देशे मगधनामनि । श्रियाऽभिरामः सदामोऽस्त्यचलग्राम'नामकः ॥ १७ ॥ तत्राभूइरणिजटाभिधानो द्विजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तप्रिया ॥ १८ ॥ स नन्दिभूतिश्रीभूती यशोभद्राभवौ सुतौ। यत्नतः पाठयामास वेदशास्त्रमहर्निशम् ॥ १८ ॥ दास्या कपिलया जात: कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ २० ॥ स्वपित्रा पाठ्यमानौ तौ शृण्वान: कपिलोऽथ सः । अन्ने चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ २१ ॥ गृहानिसत्व यज्ञोपवीतयुग्मं वहस्ततः ।.. महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भुवि ॥ २२ ॥ स प्राययौ रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो बहून् छात्रान् वेदपाठमकारयत् ॥ २३ ॥ पप्रच्छ कपिल-छात्रान् वेदोपनिषदं तथा । • यथा नोत्तरमेतस्मै दातुमीशा इमे ऽभवन् ॥ २४ ॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे । स्थापयामास को नाम गुणेन लभते पदम् ॥ २५ ॥ उपाध्यायस्य तस्यासोज्जम्बुका नाम गेहिनी। तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥ २६ ॥
(१) ग -संज्ञका।