________________
৩
श्रीशान्तिनाथचरित्रे
अनेन प्रार्थिता स्वामित्र कार्षमिदमुत्तरम् । यतो राजप्रदत्ताऽहं भविष्यामि प्रिया तव ॥ ३८ ॥ निस्त्राणया मयेतस्मात् शोलमेवं हि रक्षितम् । अधुना तु करिथामि प्रवेशं ज्वलितानले ॥ ४० ॥ स्त्रीणामवश्यं साक्षी स्याद्भर्तुः सङ्गे हुताशनः । स एव शरणं तासां विरहे तस्य युज्यते ॥ ४१ ॥ भणिता भूभुजा सैवं मा कार्षीभृत्युसाहसम् । यतोऽहं दर्शयिष्यामि परिणीतपतिस्तव ॥ ४२ ॥ सोचे नरेन्द्र नो कत्तुं परिहासस्तवोचितः । कास्ति मे स धवो यो हि प्रक्षिप्तोऽगाधवारिधौ ॥ १३ ॥ ततस्ताम्बूलदानार्थमुत्थाप्य धनदं नृपः । प्रोचे भट्रे स्वभ रममं दृध्या विलोकय ॥ ४४ ॥ तमालोक्योपलक्ष्यापि साऽसंभाव्यसमागमम् । यावदद्यापि नो हर्षप्रकर्ष तादृशं दधौ ॥ ४५ ॥ अवदद्धनदस्तावद्देवास्या: स पतिः स्फुटम् । यः शून्यागारसंस्थायाः कुतोऽप्यागादतर्कित: ॥ ४६ ॥ अनयैवार्पितो यस्य खगो राक्षसघातकृत् । राक्षसश्च हतो येनोदूढेयं चानुरागिणी ॥ ४७ ॥ इत्यादि सर्ववृत्तान्ते कथिते सति मूलतः । सूर्यालोकेऽजिनीवाभूत्सा सद्यो विकसन्मुखी ॥ ४८ ॥ जाता मत्स्योदरस्यैषा पुनर्जाया तृपाज्ञया । मार्यमाणश्च सार्थेशो नृपात्तेनैव मोचितः ॥ ४८ ॥