________________
१६२
श्रीशान्तिनाथचरित्रे
ताभ्यां सा भणिता चैवं 'संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं वतिनी शुभे ! ॥ ८१ ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्ती नगरौं निजाम् ॥ २ ॥ स्वयंप्रभजिनोऽन्येद्युः सुरासुरनरार्चितः ।
आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥ १३ ॥ गत्वा भक्त्या ववन्दाते तमिमौ बलकेशवौ। धर्म शुशुवतुः साई तया च कनकश्रिया ॥ १४ ॥ अग्रेऽपि कनकधीः सा विषयेभ्यो विरक्तधीः । जैनौं वाचं समाकर्ण्य विशेषेणाभवत् तदा ॥ १५ ॥ ततश्च हरिसीरिभ्यां कतनिष्क्रमणोत्सवा । सा प्रवव्राज तेपे चैकावल्यादि तपो महत् ॥ १६ ॥ शुक्लध्यानानलप्लुष्टघातिकर्मचतुष्टया। उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम् ॥ १७ ॥ इतोऽपराजितस्याऽऽसीद् विरता नाम गहिनी। तदङ्गसंभवा पुत्रो जाता सुमतिसंजिका ॥ १८ ॥ जीवाजीवाऽऽदितत्त्वज्ञा तपःकर्मसमुद्यता । आबाल्यादपि सा जन्ने कुशला जिनशासने ॥ ८ ॥ चतुर्थपारणेऽन्येास्तस्या गेहे समाययौ। शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः ॥ ७०० ॥
(१) ख घ च संभाव्य। (२) घ च ज झ जने।