________________
द्वितीयः
प्रस्तावः ।
प्रजापतिनृपस्त्वाज्ञां न ते लङ्घयति कचित् । तदेतस्योपरि क्रोधो न कर्त्तव्यो मनागपि ॥ ३८ ॥ शालिक्षेत्राण्यथो तस्य वारंवारेण पार्थिवैः । रक्ष्यन्ते स्म मृगारातेः प्रतिवर्षमुपद्रवात् ॥ ४० ॥ तस्मिन् वर्षे च तद्रचामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत् क्रुद्धमानसः ॥ ४१ ॥ पितरं प्रतिषिध्याथ कुमारौ बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्र प्रदेशभूः ॥ ४२ ॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनैः ॥ ४३ ॥ युवां कावपि वर्त्तेथे नवीनौ शालिरक्षकौ । निःसन्राहौ समायातौ यौ सैन्यपरिवर्जितौ ॥ ४४ ॥ ऊचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां ममः | यथा तद्रक्षण क्लेशं सर्वथा वारयाम्यहम् ॥ ४५ ॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तगुहाहारे त्रिपृष्ठोऽपि रथस्थितः ॥ ४६ ॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च ॥ ४७ ॥ पदातिं तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खड्गरत्नं च तं निरीक्ष्य निरायुधम् ॥ ४८ ॥ कुमारचेष्टितं दृष्ट्वा दध्यौ सिंहोऽपि विस्मितः । अहो आश्चर्य्यमेकं तत् यदेकोऽयमिहागतः ॥ ४८ ॥
३८