________________
हितीयः प्रस्तावः ।
ततोऽसौ साधयामास भरताईमहीपतीन् । । बने कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ ८० ॥ वासुदेवाभिषेकोऽस्य चक्रे भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥ ८१ ॥ अर्ककोर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गैहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥ २ ॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥ ८३ ॥ इत: श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारोन्मरालवत् ॥ ८४ ॥ . दृष्टोऽमितप्रभाव्याप्तसूरस्वप्नोऽम्बया तदा। । जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥ ८५ । अर्ककोतिः पिता सोऽथ परिव्रज्यामुपाददे। अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥ ८६ ॥ जीवोऽथ सत्यभामायाश्चात्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽर्ककीर्तेस्तनयाऽभवत् ॥ ८७ ॥ सुतारारजनीखप्रदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षी चारुतारुण्यशोभिता ॥ ८८ ॥ जीवोऽभिनन्दितायाश्च स्वर्गाच्चुत्वाऽऽयुषः क्षये । देव्यां स्वयंप्रभानामयां त्रिपृष्ठस्य सुतोऽभवत् ॥ ८८ ॥ अभिषेको महालक्ष्मया दृष्टः स्वप्ने यदम्बया। . तेन श्रीविजयो नाम तस्य जन्ने मनोरमम् ॥ ८० ॥