________________
प्रोषधोपवास]
पवास: प्रोषधोपवासः । ( त श्लो. ७-२१) । ७. सामायिक संस्कारं प्रतिदिनमारोपितं स्थिरीकर्तुम् । पक्षार्धयोर्द्वयोरपि कर्तव्योऽवश्यमुपवासः ।। मुक्तसमस्तारम्भः प्रोषधदिन पूर्व वासरस्यार्थे । उपवासं गृह्णीयान्ममत्वमपहाय देहादौ । श्रित्वा विविक्तवसति समस्तसावद्ययोगमपनीय | सर्वेन्द्रियार्थविरतः काय - मनोवचन गुप्तिभिस्तिष्ठेत् ॥ धर्म ध्यानाश [ स ] क्तो वासरमतिवाह्य विहितसान्ध्यविधिः । शुचिसंस्तरे त्रियामां गमयेत् स्वाध्याय जितनिद्रः । प्रातः प्रोत्थाय ततः कृत्वा तात्कालिकं क्रियाकल्पम् । निर्वर्तयेद्यथांक्तं जिनपूजां प्रासुकैर्द्रव्यैः ॥ उक्तेन ततो विधिना नीत्वा दिवसं द्वितीयरात्रि च । प्रतिवाहयेत् प्रयत्नादर्धं च तृतीय दिवसस्य । इति यः षोडश यामान् गमयति परिमुक्तसकलसावद्यः । तस्य तदानीं नियतं पूर्ण महिसाव्रतं भवति ।। (पु. सि. १५१-५७ ) । ८. ण्हाण - विलेवण- भूषण- इत्थी संसग्ग-गंध-धूवादी । जो परिहरेदि णाणी वेरग्गाभूसणं किच्चा || दोसु वि पव्वेसु सया उववासं एयभत्त - णिव्वियडी । जो कुणदि एवमाई तस्स वयं पोसहं बिदियं ॥ ( कार्ति - के. ३५८-५६ )। ६. प्रोषधः पर्वपर्यायवाची शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पंचापीन्द्रियाणि उपेत्य तस्मिन् वसन्तीत्युपवासः । उक्तं च - उपेत्याक्षाणि सर्वाणि निवृत्तानि स्वकार्यतः । वसन्ति यत्र स प्राज्ञरुपवासोऽभिधीयते । पर्वणि चतुर्विधाहारनिवृत्तिः प्रोषधोपवासः । (चा. सा. पृ. १२) । १०. चत्वारि सन्ति पर्वाणि मासे तेषु विधीयते । उपवासः सदा यस्तत्प्रोषधव्रतमीर्यते ॥ ( सुभाषित ८०८ ) । ११. सदनारम्भनिवृत्तैराहारचतुष्टयं सदा हित्वा । पर्व चतुष्के स्थेयं संयम यमसाधनोद्युक्तैः ॥ ताम्बूलगन्ध-माल्य-स्नानाभ्यंगादिसर्व संस्कारम् । ब्रह्मव्रतगतचित्तः स्थातव्यमुपोषितस्त्यक्त्वाः ।। उपवासानुपवासैकस्थानेष्वेकमपि विधत्ते यः । शक्त्यनुसारपरोऽसौ प्रोषधकारी जिनैरुक्तः ॥ ( श्रमित. श्री. ६, ८८ - ० ) । १२. निवृत्तिर्भुक्तभोगानां या स्यात् पर्वचतुष्टये । प्रोषधाख्यं द्वितीयं तच्छिक्षाव्रतमितीरितम् ।। (धर्मश २१ - १५० ) । १३. स प्रोषधोपवासो यच्चतुष्प यथागमम् । साम्यसंस्कारदार्द - याय चतुर्भुक्त्युज्भनं सदा ॥ (सा. ध. ५-३४) । १४. अष्टमी चतुर्दशी च पर्वद्वयं प्रोषध इत्युपचर्यते, प्रोषधे उपवास: स्पर्श-रस- गन्ध-वर्ण- शब्दलक्षणेषु
Jain Education International
[प्रोषधोपवासप्रतिमा
पंचसु विषयेयु परिहृतौत्सुक्यानि पंचापीन्द्रियाण्युपेत्य आगत्य तस्मिन् उपवासे वसन्ति इत्युपवासः । अशनपान-खाद्य-लेह्य लक्षणचतुर्विधाहारपरिहार इत्यर्थः । सर्व सावद्यारम्भ-स्वशरीरसंस्कारकरण-स्नान - गन्धमाल्याभरण - नस्यादिविवर्जितः पवित्रप्रदेशे मुनिवासे चैत्यालये स्वकीयप्रोषधोपवासमन्दिरे वा धर्मकथां कथयन् शृण्वन् चिन्तयन् वा अवहितान्तःकरण एकाग्रमनाः सन् उपवासं कुर्यात् स श्रावक: प्रोषधोपवासव्रतो भवति । (त. वृत्ति श्रुत. ७ - २१) । १५. प्रोषधः पर्ववाचीह् चतुर्धाहारवर्जनम् । तत्प्रोपथोपवासाख्यं व्रतं साम्यस्य सिद्धये ।। ( धर्मसं. श्री. ७-६० ) । १६. चतुर्दश्यामथाष्टम्यां प्रोषधः क्रियते सदा । शिक्षाव्रतं द्वितीयं स्यान्मुनिमार्गविधानतः ॥ ( पू. उपासका ३२, पृ. २२) । १७. स्यात्प्रोषधोपवासाख्यं व्रतं च परमौषधम् । जन्म-मृत्यु-जरातङ्कविध्वंसनविचक्षणम् ॥ चतुर्धाशनसंन्यासो यावद् यामांश्च षोडश । स्थितिर्निरवद्यस्थाने व्रतं प्रोषधसंज्ञकम् ।। (लाटीसं. ६, १६६-६७) ।
१ चतुर्दशी और अष्टमी के दिन प्रशन, पान खाद्य श्रौर लेहा इन चार प्रकार के भोज्य पदार्थों का सदा उत्सुकतापूर्वक प्रत्याख्यान करना - उनका परित्याग करना, इसे प्रोषधोपवास जानना चाहिए। २ प्रोषध शब्द का अर्थ पर्व है, 'उपेत्य वसन्ति तस्मिन् इन्द्रियाणि इति उपवास:' इस निरुक्ति के अनुसार जिस चार प्रकार के आहार के परित्याग स्वरूप उपवास में पांचों ही इन्द्रियां अपने अपने विषयग्रहण की प्रोर से विमुख होकर निवास करती हैं उसका नाम उपवास है, प्रोषध (अष्टमी - चतुर्दशी श्रादि पर्व दिन) के समय में जो उपवास किया जाता है, वह प्रोषधोपवास कहलाता है । प्रभिप्राय यह है कि इंद्रियों पर विजय प्राप्त करने के लिए जो पर्व दिनों में चार प्रकार के श्राहार का परित्याग किया जाता है उसे प्रोषधोपवास जानना चाहिए । प्रोषधोपवासप्रतिमा -- १. पर्वदिनेषु चतुर्ष्वपि मासे मासे स्वशक्तिमनिगुह्य । प्रोषधनियमविधायी प्रणधिर: प्रोषधानशनः । ( रत्नक. ५ - १६ ) । २. सत्तमि तेरसिदिवसे अवरण्हे जाइऊण जिणभवणे । किच्चा किरियाकम्मं उववासं चउविहं गहिय ॥ गिवावारं चत्ता रति गमिऊण धम्मचिताए ।
८००, जेन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org